मम प्रबोधिनी
या रता निष्कामभूत्वा अध्यायिनाम् उत्थापने।।
परिभासते यदि तुंगतुल्या द्युतीत कलशै: मंडिता।
परिस्पंदति प्रस्फूर्तितानाम् चेतसि मम प्रबोधिनी ।।१।।
परिकल्पिता संस्थापिता संवर्धिता संन्यासिभि:।
चेतसि धृत्वा व्रतानाम् तै: एव प्रचोदिता।।
मातृभूम्यै अर्पणं कृत्वा विरागी उद्यमं।
प्रस्थापितं तस्या: इह गर्भगृहे अध्यासनम् ।।२।।
आवेष्टिता: आसन् मार्दवेन अनया भेवम अभिन्ना: स्नेहिन: वयम् ।
अनुसृत्य उपदिष्टम् यथामति: उद्दीपयाम अस्माकं जीवनम् ।।
या व्रतस्था श्रमण स्निग्धा स्फुरण श्रेय प्रदायिनी ।
परिस्पंदति प्रस्फूर्तितानाम् चेतसि मम प्रबोधिनी ।।३।।

Comments
Post a Comment