मम प्रबोधिनी
प्रांजल अक्कलकॊटकर अध्यापक या रता प्रस्फूर्तिता प्रतिभामतां उद्बोधने। या रता निष्कामभूत्वा अध्यायिनाम् उत्थापने।। परिभासते यदि तुंगतुल्या द्युतीत कलशै: मंडिता। परिस्पंदति प्रस्फूर्तितानाम् चेतसि मम प्रबोधिनी ।।१।। परिकल्पिता संस्थापिता संवर्धिता संन्यासिभि:। चेतसि धृत्वा व्रतानाम् तै: एव प्रचोदिता।। मातृभूम्यै अर्पणं कृत्वा विरागी उद्यमं। प्रस्थापितं तस्या: इह गर्भगृहे अध्यासनम् ।।२।। आवेष्टिता: आसन् मार्दवेन अनया भेवम अभिन्ना: स्नेहिन: वयम् । अनुसृत्य उपदिष्टम् यथामति: उद्दीपयाम अस्माकं जीवनम् ।। या व्रतस्था श्रमण स्निग्धा स्फुरण श्रेय प्रदायिनी । परिस्पंदति प्रस्फूर्तितानाम् चेतसि मम प्रबोधिनी ।।३।।